श्रीविष्णु पञ्चायुधस्तोत्रम्
स्फुरत्सहस्रारशिखातितीव्रं सुदर्शनं भास्करकोटितुल्यम् । सुरद्विषां प्राणविनाशि विष्णोश्चक्रं सदाऽहं शरणं प्रपद्ये ॥ १॥ विष्णोर्मुखोत्थानिलपूरितस्य यस्य ध्वनिर्दानवदर्पहन्ता । तं पाञ्चजन्यं शशिकोटिशुभ्रं शङ्खं सदाऽहं शरणं प्रपद्ये ॥ २॥ हिरण्मयीं मेरुसमानसारां कौमोदकीं दैत्यकुलैकहन्त्रीम् । वैकुण्ठवामाग्रकराभिमृष्टां गदां सदाऽहं शरणं प्रपद्ये ॥ ३॥ रक्षोऽसुराणां कठिनोग्रकण्ठच्छेदक्षरच्छोणितदिग्धधाराम् । तं नन्दकं नाम हरेः प्रदीप्तं खड्गं सदाऽहं शरणं प्रपद्ये ॥ ४॥ यज्ज्यानिनादश्रवणात्सुराणां चेतांसि निर्मुक्तभयानि सद्यः । भवन्ति दैत्याशनिबाणवल्लिः शार्ङ्गं सदाऽहं शरणं प्रपद्ये ॥ ५॥ इमं हरेः पञ्चमहायुधानां स्तवं पठेद्योऽनुदिनं प्रभाते । var पठेद्योसुदिनं समस्तदुःखानि भयानि सद्यः पापानि नश्यन्ति सुखानि सन्ति ॥ ६॥ वनेरणे शत्रुजलाग्निमध्ये यदृच्छयापत्सु महाभयेषु । इदं पठन् स्तोत्रमनाकुलात्मा सुखी भवेत्तत्कृतसर्वरक्षः ॥ ७॥ यच्चक्रशङ्खं गदखड्गशार्ङ्गिणं पीताम्बरं कौस्तुभवत्सलाञ्छितम् । श्रिया समेतोज्ज्वलशोभिताङ्गं विष्णुं सदाऽहं शरणं प्रपद्ये ॥ ८॥ जले रक्षतु वाराहः स्थलेरक्षतु वामनः । अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥ इति श्रीविष्णु पञ्चायुधस्तोत्रम् ।
No comments:
Post a Comment