Tuesday, January 25, 2022

5

 

श्रीविष्णु पञ्चायुधस्तोत्रम्

स्फुरत्सहस्रारशिखातितीव्रं सुदर्शनं भास्करकोटितुल्यम् ।
सुरद्विषां प्राणविनाशि विष्णोश्चक्रं सदाऽहं शरणं प्रपद्ये ॥ १॥

विष्णोर्मुखोत्थानिलपूरितस्य यस्य ध्वनिर्दानवदर्पहन्ता ।
तं पाञ्चजन्यं शशिकोटिशुभ्रं शङ्खं सदाऽहं शरणं प्रपद्ये ॥ २॥

हिरण्मयीं मेरुसमानसारां कौमोदकीं दैत्यकुलैकहन्त्रीम् ।
वैकुण्ठवामाग्रकराभिमृष्टां गदां सदाऽहं शरणं प्रपद्ये ॥ ३॥

रक्षोऽसुराणां कठिनोग्रकण्ठच्छेदक्षरच्छोणितदिग्धधाराम् ।
तं नन्दकं नाम हरेः प्रदीप्तं खड्गं सदाऽहं शरणं प्रपद्ये ॥ ४॥

यज्ज्यानिनादश्रवणात्सुराणां चेतांसि निर्मुक्तभयानि सद्यः ।
भवन्ति दैत्याशनिबाणवल्लिः शार्ङ्गं सदाऽहं शरणं प्रपद्ये ॥ ५॥

इमं हरेः पञ्चमहायुधानां स्तवं पठेद्योऽनुदिनं प्रभाते । var  पठेद्योसुदिनं
समस्तदुःखानि भयानि सद्यः पापानि नश्यन्ति सुखानि सन्ति ॥ ६॥

वनेरणे शत्रुजलाग्निमध्ये यदृच्छयापत्सु महाभयेषु ।
इदं पठन् स्तोत्रमनाकुलात्मा सुखी भवेत्तत्कृतसर्वरक्षः ॥ ७॥

यच्चक्रशङ्खं गदखड्गशार्ङ्गिणं
         पीताम्बरं कौस्तुभवत्सलाञ्छितम् ।
श्रिया समेतोज्ज्वलशोभिताङ्गं
         विष्णुं सदाऽहं शरणं प्रपद्ये ॥ ८॥

जले रक्षतु वाराहः स्थलेरक्षतु वामनः ।
अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥

इति श्रीविष्णु पञ्चायुधस्तोत्रम् ।

No comments: