Tuesday, November 1, 2022

gadya padam.

 

रामकृष्णचरितम् गद्यपद्यात्मकं

पृथिवीभरपरिहृत्यै सुरवरसम्प्रार्थितोऽत्र भूमितले । नृरूपेण तमोनुद्वंशे सकलोऽप्यवातरद्विमले ॥ १॥ पितृबन्धमोचकोऽभूद्यः स्वोत्पत्त्या प्रदश्र्य निजरूपम् । प्राक्स्मृत्यै स पितृभ्यां तदनुमतं स्वीचकार सद्रूपम् ॥ २॥ नीता गुरुणान्यत्र च देवरिपून्हन्तुकाम एव पुरा । स्त्रीवधरूपां गणपतिपूजां चक्रे बभूव साऽपि वरा ॥ ३॥ शेषसहायो हतवानसुरान्यज्ञद्रुहो महावीरः । स्वमतं ततान यज्ञं द्विजदारानुद्दधार वरधीरः ॥ ४॥ (गद्यम्)अथ स भगवान् क्षत्ररूपेणावतीर्णस्तमोऽनुत्कुलभूषणो विप्रवरेण नीतो निजपूर्वपत्नीपरिणयं चिकीर्षुर्न केनाप्युत्थापितं न नमितं च राजाभिमानचापं लीलयैवादाय सहसैव बभञ्ज ॥ ५॥ कुमारशापेन वैकुण्ठादपि पतितं नीचतां गतमात्मानं वृणानं राजानं समागतमालोच्य पूर्वं म्लायितवदनापि पद्मसदना हृष्टवदना सती स्वयमेव स्वपतिं वृतवती ॥ ६॥ वव्रे श्रियं स विजयश्रिया स्वभागं जहार मृगप इव । हृष्टभ्रातयुतः स प्रतस्थ ईशः प्रभुः कृतार्थ इव ॥ ७॥ (गद्यम्)अथ ससैन्यकः सभ्रातृकः सपरिग्रहो भगवान् स्वराष्ट्रं प्रयास्यन्मेघगम्भीरया वाचा गर्जन्तं पृष्ठत आगतं द्विषन्तं निर्जित्य विजयी सन्स्वनगरं प्राविशत् ॥ ८॥ ईदृग्गुणा यस्य न वर्णितुं यान् शेषोऽपि शक्तः क कथा परेषाम् । स बद्धसेतुर्जितदेववैरिर्नाथो रघूणामथवा यदूनाम ॥ ९॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीरामकृष्णचरितं सम्पूर्णम् ।

No comments: