Saturday, October 24, 2026

Muralidhara.

 

श्रीमुरलीधरगोपालाष्टकम्

नमामि गोपिकाकान्तं द्विभुजं मुरलीधरम् । शोणाधरं गिरिधरं भक्तदुःखहरं हरिम् ॥ १॥ सतोयमेघद्युतिगर्वहारिस्फुरद्युतिः स्मर्तृभयापहारि । कृष्णाय भूम्ने कमलावराय नमोऽस्तु तस्मै मुरलीधराय ॥ २॥ यो भूमिभारव्यपनुत्तयेऽत्र ब्रह्मादिदेवार्थित एव पुत्रः । बभूव भुव्यानकदुन्दुभेर्यो नमोऽस्तु तस्मै मुरलीधराय ॥ ३॥ अपाययत्स्तन्यमिषाद्विषं या तस्यै ददौ मात्रुचितां गतिं यः । कारुण्यसिन्धुर्निहितासुराय नमोऽस्तु तस्मै मुरलीधराय ॥ ४॥ गाश्चारयन्गोपकुमारयुक्तः सुरद्विषोऽहन्निजकार्यसक्तः । भक्तप्रियो यो दिविषिद्वराय नमोऽस्तु तस्मै मुरलीधराय ॥ ५॥ यद्वेणुशब्दश्रवणेन सद्यो ह्यचेतनं चेतनतां परं च । तथान्यभावं प्रगतं पराय नमोऽस्तु तस्मै मुरलीधराय ॥ ६॥ व्याजेन भर्तृत्वमितं विवर्णं त्यक्त्वा सती दग्धतनुर्बभूव ॥ वेणुर्यदोष्ठामृतभाक्पराय नमोऽस्तु तस्मै मुरलीधराय ॥ ७॥ गोपालाय नमस्तुभ्यमपराधान्क्षमस्व मे । कृपां कुरु दयासिन्धो सर्वान्कामान्प्रपूरय ॥ ८॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीमुरलीधरगोपालाष्टकं सम्पूर्णम् ।

No comments: