नारायणं नमस्कृत्य नरं चैव नरॊत्तमम
देवीं सरस्वतीं चैव ततॊ जयम उदीरयेत
1 लॊमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेर दवादशवार्षिके सत्रे
2 समासीनान अभ्यगच्छद बरह्मर्षीन संशितव्रतान
विनयावनतॊ भूत्वा कदा चित सूतनन्दनः
3 तम आश्रमम अनुप्राप्तं नैमिषारण्यवासिनः
चित्राः शरॊतुं कथास तत्र परिवव्रुस तपस्विनः
4 अभिवाद्य मुनींस तांस तु सर्वान एव कृताञ्जलिः
अपृच्छत स तपॊवृद्धिं सद्भिश चैवाभिनन्दितः
5 अथ तेषूपविष्टेषु सर्वेष्व एव तपस्विषु
निर्दिष्टम आसनं भेजे विनयाल लॊमहर्षणिः
6 सुखासीनं ततस तं तु विश्रान्तम उपलक्ष्य च
अथापृच्छद ऋषिस तत्र कश चित परस्तावयन कथाः
7 कृत आगम्यते सौते कव चायं विहृतस तवया
कालः कमलपत्राक्ष शंसैतत पृच्छतॊ मम
8 [सूत]
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः
समीपे पार्थिवेन्द्रस्य सम्यक पारिक्षितस्य च
9 कृष्णद्वैपायन परॊक्ताः सुपुण्या विविधाः कथाः
कथिताश चापि विधिवद या वैशम्पायनेन वै
10 शरुत्वाहं ता विचित्रार्था महाभारत संश्रिताः
बहूनि संपरिक्रम्य तीर्थान्य आयतनानि च
11 समन्तपञ्चकं नाम पुण्यं दविजनिषेवितम
गतवान अस्मि तं देशं युद्धं यत्राभवत पुरा
पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम
12 दिदृक्षुर आगतस तस्मात समीपं भवताम इह
आयुष्मन्तः सर्व एव बरह्मभूता हि मे मताः
13 अस्मिन यज्ञे महाभागाः सूर्यपावक वर्चसः
कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः
भवन्त आसते सवस्था बरवीमि किम अहं दविजाः
14 पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः
इतिवृत्तं नरेन्द्राणाम ऋषीणां च महात्मनाम
15 [रसयह]
दवैपायनेन यत परॊक्तं पुराणं परमर्षिणा
सुरैर बरह्मर्षिभिश चैव शरुत्वा यद अभिपूजितम
16 तस्याख्यान वरिष्ठस्य विचित्रपदपर्वणः
सूक्ष्मार्थ नयाययुक्तस्य वेदार्थैर भूषितस्य च
17 भारतस्येतिहासस्य पुण्यां गरन्थार्थ संयुताम
संस्कारॊपगतां बराह्मीं नानाशास्त्रॊपबृंहिताम
18 जनमेजयस्य यां राज्ञॊ वैशम्पायन उक्तवान
यथावत स ऋषिस तुष्ट्या सत्रे दवैपायनाज्ञया
19 वेदैश चतुर्भिः समितां वयासस्याद्भुत कर्मणः
संहितां शरॊतुम इच्छामॊ धर्म्यां पापभयापहाम
20 [सूत]
आद्यं पुरुषम ईशानं पुरुहूतं पुरु षटुतम
ऋतम एकाक्षरं बरह्म वयक्ताव्यक्तं सनातनम
21 असच च सच चैव च यद विश्वं सद असतः परम
परावराणां सरष्टारं पुराणं परम अव्ययम
22 मङ्गल्यं मङ्गलं विष्णुं वरेण्यम अनघं शुचिम
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम
23 महर्षेः पूजितस्येह सर्वलॊके महात्मनः
परवक्ष्यामि मतं कृत्स्नं वयासस्यामित तेजसः
24 आचख्युः कवयः के चित संप्रत्याचक्षते परे
आख्यास्यन्ति तथैवान्ये इतिहासम इमं भुवि
25 इदं तु तरिषु लॊकेषु महज जञानं परतिष्ठितम
विस्तरैश च समासैश च धार्यते यद दविजातिभिः
26 अलंकृतं शुभैः शब्दैः समयैर दिव्यमानुषैः
छन्दॊ वृत्तैश च विविधैर अन्वितं विदुषां परियम
27 निष्प्रभे ऽसमिन निरालॊके सर्वतस तमसावृते
बृहद अण्डम अभूद एकं परजानां बीजम अक्षयम
28 युगस्यादौ निमित्तं तन महद दिव्यं परचक्षते
यस्मिंस तच छरूयते सत्यं जयॊतिर बरह्म सनातनम
29 अद्भुतं चाप्य अचिन्त्यं च सर्वत्र समतां गतम
अव्यक्तं कारणं सूक्ष्मं यत तत सदसद आत्मकम
30 यस्मात पितामहॊ जज्ञे परभुर एकः परजापतिः
बरह्मा सुरगुरुः सथाणुर मनुः कः परमेष्ठ्य अथ
31 पराचेतसस तथा दक्षॊ दष्क पुत्राश च सप्त ये
ततः परजानां पतयः पराभवन्न एकविंशतिः
32 पुरुषश चाप्रमेयात्मा यं सर्वम ऋषयॊ विदुः
विश्वे देवास तथादित्या वसवॊ ऽथाश्विनाव अपि
33 यक्षाः साध्याः पिशाचाश च गुह्यकाः पितरस तथा
ततः परसूता विद्वांसः शिष्टा बरह्मर्षयॊ ऽमलाः
34 राजर्षयश च बहवः सर्वैः समुदिता गुणैः
आपॊ दयौः पृथिवी वायुर अन्तरिक्षं दिशस तथा
35 संवत्सरर्तवॊ मासाः पक्षाहॊ रात्रयः करमात
यच चान्यद अपि तत सर्वं संभूतं लॊकसाक्षिकम
36 यद इदं दृश्यते किं चिद भूतं सथावरजङ्गमम
पुनः संक्षिप्यते सर्वं जगत पराप्ते युगक्षये
37 यथर्ताव ऋतुलिङ्गानि नानारूपाणि पर्यये
दृश्यन्ते तानि तान्य एव तथा भावा युगादिषु
38 एवम एतद अनाद्य अन्तं भूतसंहार कारकम
अनादि निधनं लॊके चक्रं संपरिवर्तते
39 तरयस तरिंशत सहस्राणि तरयस तरिंशच छतानि च
तरयस तरिंशच च देवानां सृष्टिः संक्षेप लक्षणा
40 दिवः पुत्रॊ बृहद भानुश चक्षुर आत्मा विभावसुः
सविता च ऋचीकॊ ऽरकॊ भानुर आशा वहॊ रविः
41 पुत्रा विवस्वतः सर्वे मह्यस तेषां तथावरः
देव भराट तनयस तस्य तस्मात सुभ्राड इति समृतः
42 सुभ्राजस तु तरयः पुत्राः परजावन्तॊ बहुश्रुताः
दश जयॊतिः शतज्यॊतिः सहस्रज्यॊतिर आत्मवान
43 दश पुत्रसहस्राणि दश जयॊतेर महात्मनः
ततॊ दशगुणाश चान्ये शतज्यॊतेर इहात्मजाः
44 भूयस ततॊ दशगुणाः सहस्रज्यॊतिषः सुताः
तेभ्यॊ ऽयं कुरुवंशश च यदूनां भरतस्य च
45 ययातीक्ष्वाकु वंशश च राजर्षीणां च सर्वशः
संभूता बहवॊ वंशा भूतसर्गाः सविस्तराः
46 भूतस्थानानि सर्वाणि रहस्यं विविधं च यत
वेद यॊगं सविज्ञानं धर्मॊ ऽरथः काम एव च
47 धर्मकामार्थ शास्त्राणि शास्त्राणि विविधानि च
लॊकयात्रा विधानं च संभूतं दृष्टवान ऋषिः
48 इतिहासाः सवैयाख्या विविधाः शरुतयॊ ऽपि च
इह सर्वम अनुक्रान्तम उक्तं गरन्थस्य लक्षणम
49 विस्तीर्यैतन महज जञानम ऋषिः संक्षेपम अब्रवीत
इष्टं हि विदुषां लॊके समास वयास धारणम
50 मन्वादि भारतं के चिद आस्तीकादि तथापरे
तथॊपरिचराद्य अन्ये विप्राः सम्यग अधीयते
No comments:
Post a Comment