यत्पदाम्भोरुहध्यानविध्वस्ताशे
वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥
कान्तस्ते पुरुषोत्तम: फणिपति: शय्याऽऽसनं वाहनं
वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी ।
ब्रह्मेशादिसुरव्रजस्सदयित: त्वद्दासदासीगण:
श्रीरित्येव च नाम ते भगवति ! ब्रूम: कथं त्वां वयम् ॥ १ ॥
यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभु:
नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वत: ।
तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भय:
लोकैकेश्वरि लोकनाथदयिते ! दान्ते दयां ते विदन् ॥ २ ॥
ईषत्वत्करुणानिरीक्षणसुधा सन्धुक्षणाद्रक्ष्यते
नष्टं प्राक्तदलाभतस्त्रिभुवनं संप्रत्यनन्तोदयम् ।
श्रेयो न ह्यरविन्दलोचनमन: कान्ताप्रसादादृते
संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हि चित् ॥ ३ ॥
शान्तानन्दमहाविभूति परमं यद्ब्रह्मरूपं हरे:
मूर्तं ब्रह्म ततोऽपि तत्प्रियतरं रूपं यदत्यद्भुतम् ।
यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणि तानि
आहु: स्वैरनुरूपरूपविभवैर्गाढोपगूढा
आकारत्रयसंपन्नाम् अरविन्दनिवासिनीम् ।
अशेषजगदीशित्रीं वन्दे वरदवल्लभाम् ॥
॥ इति चतु:श्लोकी समाप्ता ॥
No comments:
Post a Comment